\documentclass[a4paper,12pt]{article} \usepackage{polyglossia} \usepackage{fontspec} \setdefaultlanguage{sanskrit} \setmainfont[Script=Devanagari]{Sanskrit 2003} \renewcommand{\baselinestretch}{1.1} \begin{document} % Mahābhārata 1,3,1-195 % 1,3,1 जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते। तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति। % 1,3,2 तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः। स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत्। % 1,3,3 तं माता रोरूयमाणमुवाच। किं रोदिषि। केनास्यभिहत इति। % 1,3,4 स एवमुक्तो मातरं प्रत्युवाच। जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति। % 1,3,5 तं माता प्रत्युवाच। व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति। % 1,3,6 स तां पुनरुवाच। नापराध्यामि किंचित्। नावेक्षे हवींषि नावलिह इति। % 1,3,7 तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते। % 1,3,8 स तया क्रुद्धया तत्रोक्तः। अयं मे पुत्रो न किंचिदपराध्यति। किमर्थमभिहत इति। यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति। % 1,3,9 स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं संभ्रान्तो विषण्णश्चासीत्। % 1,3,10 स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति। % 1,3,11 स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत्। % 1,3,12 तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम। तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम। % 1,3,13 तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे। % 1,3,14 स नमस्कृत्य तमृषिमुवाच। भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति। % 1,3,15 स एवमुक्तः प्रत्युवाच। भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः। महातपस्वी स्वाध्यायसंपन्नो मत्तपोवीर्यसंभृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः। समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम्। अस्य त्वेकमुपांशुव्रतम्। यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयम्। यद्येतदुत्सहसे ततो नयस्वैनमिति। % 1,3,16 तेनैवमुत्को जनमेजयस्तं प्रत्युवाच। भगवंस्तथा भविष्यतीति। % 1,3,17 स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच। मयायं वृत उपाध्यायः। यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति। % 1,3,18 तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः। स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे। तं च देशं वशे स्थापयामास। % 1,3,19 एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः। तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति। % 1,3,20 स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास। गच्छ केदारखण्डं बधानेति। % 1,3,21 स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत्। % 1,3,22 स क्लिश्यमानोऽपश्यदुपायम्। भवत्वेवं करिष्यामीति। % 1,3,23 स तत्र संविवेश केदारखण्डे। शयाने तस्मिंस्तदुदकं तस्थौ। % 1,3,24 ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत्। क्व आरुणिः पाञ्चाल्यो गत इति। % 1,3,25 ते प्रत्यूचुः। भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति। % 1,3,26 स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच। तस्मात्सर्वे तत्र गच्छामो यत्र स इति। % 1,3,27 स तत्र गत्वा तस्याह्वानाय शब्दं चकार। भो आरुणे पाञ्चाल्य क्वासि। वत्सैहीति। % 1,3,28 स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे। प्रोवाच चैनम्। अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः। तदभिवादये भगवन्तम्। आज्ञापयतु भवान्। किं करवाणीति। % 1,3,29 तमुपाध्यायोऽब्रवीत्। यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति। % 1,3,30 स उपाध्यायेनानुगृहीतः। यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति। सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति। % 1,3,31 स एवमुक्त उपाध्यायेनेष्टं देशं जगाम। % 1,3,32 अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम। % 1,3,33 तमुपाध्यायः प्रेषयामास। वत्सोपमन्यो गा रक्षस्वेति। % 1,3,34 स उपाध्यायवचनादरक्षद्गाः। स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे। % 1,3,35 तमुपाध्यायः पीवानमपश्यत्। उवाच चैनम्। वत्सोपमन्यो केन वृत्तिं कल्पयसि। पीवानसि दृढमिति। % 1,3,36 स उपाध्यायं प्रत्युवाच। भैक्षेण वृत्तिं कल्पयामीति। % 1,3,37 तमुपाध्यायः प्रत्युवाच। ममानिवेद्य भैक्षं नोपयोक्तव्यमिति। % 1,3,38 स तथेत्युक्त्वा पुनररक्षद्गाः। रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे। % 1,3,39 तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच। वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि। केनेदानीं वृत्तिं कल्पयसीति। % 1,3,40 स एवमुक्त उपाध्यायेन प्रत्युवाच। भगवते निवेद्य पूर्वमपरं चरामि। तेन वृत्तिं कल्पयामीति। % 1,3,41 तमुपाध्यायः प्रत्युवाच। नैषा न्याय्या गुरुवृत्तिः। अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः। लुब्धोऽसीति। % 1,3,42 स तथेत्युक्त्वा गा अरक्षत्। रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे। % 1,3,43 तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच। अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि। पीवानसि। केन वृत्तिं कल्पयसीति। % 1,3,44 स उपाध्यायं प्रत्युवाच। भो एतासां गवां पयसा वृत्तिं कल्पयामीति। % 1,3,45 तमुपाध्यायः प्रत्युवाच। नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति। % 1,3,46 स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे। % 1,3,47 तमुपाध्यायः पीवानमेवापश्यत्। उवाच चैनम्। भैक्षं नाश्नासि न चान्यच्चरसि। पयो न पिबसि। पीवानसि। केन वृत्तिं कल्पयसीति। % 1,3,48 स एवमुक्त उपाध्यायं प्रत्युवाच। भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनं पिबन्त उद्गिरन्तीति। % 1,3,49 तमुपाध्यायः प्रत्युवाच। एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति। तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः। फेनमपि भवान्न पातुमर्हतीति। % 1,3,50 स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत्। तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति। पयो न पिबति। फेनं नोपयुङ्क्ते। % 1,3,51 स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत्। % 1,3,52 स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत्। सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत्। % 1,3,53 अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत्। मयोपमन्युः सर्वतः प्रतिषिद्धः। स नियतं कुपितः। ततो नागच्छति चिरगतश्चेति। % 1,3,54 स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे। भो उपमन्यो क्वासि। वत्सैहीति। % 1,3,55 स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः। अयमस्मि भो उपाध्याय कूपे पतित इति। % 1,3,56 तमुपाध्यायः प्रत्युवाच। कथमसि कूपे पतित इति। % 1,3,57 स तं प्रत्युवाच। अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि। अतः कूपे पतित इति। % 1,3,58 तमुपाध्यायः प्रत्युवाच। अश्विनौ स्तुहि। तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति। % 1,3,59 स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः। \begin{verse} % 1,3,60 प्र पूर्वगौ पूर्वजौ चित्रभानू गिरा वा शंसामि तपनावनन्तौ। \\ दिव्यौ सुपर्णौ विरजौ विमानावधिक्षियन्तौ भुवनानि विश्वा॥ \\ % 1,3,61 हिरण्मयौ शकुनी सांपरायौ नासत्यदस्रौ सुनसौ वैजयन्तौ। \\ शुक्रं वयन्तौ तरसा सुवेमावभि व्ययन्तावसितं विवस्वत्॥ \\ % 1,3,62 ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतामश्विनौ सौभगाय। \\ तावत्सुवृत्तावनमन्त मायया सत्तमा गा अरुणा उदावहन्॥ \\ % 1,3,63 षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति। \\ नानागोष्ठा विहिता एकदोहनास्तावश्विनौ दुहतो घर्ममुक्थ्यम्॥ \\ % 1,3,64 एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः। \\ अनेमि चक्रं परिवर्ततेऽजरं मायाश्विनौ समनक्ति चर्षणी॥ \\ % 1,3,65 एकं चक्रं वर्तते द्वादशारं प्रधिषण्णाभिमेकाक्षममृतस्य धारणम्। \\ यस्मिन्देवा अधि विश्वे विषक्तास्तावश्विनौ मुञ्चतो मा विषीदतम्॥ \\ % 1,3,66 अश्विनाविन्द्रममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी। \\ भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ तद्वृष्टमह्ना प्रथिता वलस्य॥ \\ % 1,3,67 युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथया वियन्ति। \\ तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति॥ \\ % 1,3,68 युवां वर्णान्विकुरुथो विश्वरूपांस्तेऽधिक्षियन्ति भुवनानि विश्वा। \\ ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति॥ \\ % 1,3,69 तौ नासत्यावश्विनावामहे वां स्रजं च यां बिभृथः पुष्करस्य। \\ तौ नासत्यावमृतावृतावृधावृते देवास्तत्प्रपदेन सूते॥ \\ % 1,3,70 मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते। \\ सद्यो जातो मातरमत्ति गर्भस्तावश्विनौ मुञ्चथो जीवसे गाः॥ \\ \end{verse} % 1,3,71 एवं तेनाभिष्टुतावश्विनावाजग्मतुः। आहतुश्चैनम्। प्रीतौ स्वः। एष तेऽपूपः। अशानैनमिति। % 1,3,72 स एवमुक्तः प्रत्युवाच। नानृतमूचतुर्भवन्तौ। न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति। % 1,3,73 ततस्तमश्विनावूचतुः। आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः। उपयुक्तश्च स तेनानिवेद्य गुरवे। त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति। % 1,3,74 स एवमुक्तः पुनरेव प्रत्युवाचैतौ। प्रत्यनुनये भवन्तावश्विनौ। नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति। % 1,3,75 तमश्विनावाहतुः। प्रीतौ स्वस्तवानया गुरुवृत्त्या। उपाध्यायस्य ते कार्ष्णायसा दन्ताः। भवतो हिरण्मया भविष्यन्ति। चक्षुष्मांश्च भविष्यसि। श्रेयश्चावाप्स्यसीति। % 1,3,76 स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे। स चास्य प्रीतिमानभूत्। % 1,3,77 आह चैनम्। यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति। सर्वे च ते वेदाः प्रतिभास्यन्तीति। % 1,3,78 एषा तस्यापि परीक्षोपमन्योः। % 1,3,79 अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम। % 1,3,80 तमुपाध्यायः संदिदेश। वत्स वेद इहास्यताम्। भवता मद्गृहे कंचित्कालं शुश्रूषमाणेन भवितव्यम्। श्रेयस्ते भविष्यतीति। % 1,3,81 स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत्। गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः। % 1,3,82 तस्य महता कालेन गुरुः परितोषं जगाम। तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप। एषा तस्यापि परीक्षा वेदस्य। % 1,3,83 स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत। तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः। % 1,3,84 स शिष्यान्न किंचिदुवाच। कर्म वा क्रियतां गुरुशुश्रूषा वेति। दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष। % 1,3,85 अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः। % 1,3,86 स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास। भो उत्तङ्क यत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति। % 1,3,87 स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम। % 1,3,88 अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म। % 1,3,89 स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः। उपाध्यायिनी ते ऋतुमती। उपाध्यायश्च प्रोषितः। अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम्। एतद्विषीदतीति। % 1,3,90 स एवमुक्तस्ताः स्त्रियः प्रत्युवाच। न मया स्त्रीणां वचनादिदमकार्यं कार्यम्। न ह्यहमुपाध्यायेन संदिष्टः। अकार्यमपि त्वया कार्यमिति। % 1,3,91 तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात्। स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत्। % 1,3,92 उवाच चैनम्। वत्सोत्तङ्क किं ते प्रियं करवाणीति। धर्मतो हि शुश्रूषितोऽस्मि भवता। तेन प्रीतिः परस्परेण नौ संवृद्धा। तदनुजाने भवन्तम्। सर्वामेव सिद्धिं प्राप्स्यसि। गम्यतामिति। % 1,3,93 स एवमुक्तः प्रत्युवाच। किं ते प्रियं करवाणीति। एवं ह्याहुः। % 1,3,94 यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति। तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति। % 1,3,95 सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति। % 1,3,96 तेनैवमुक्त उपाध्यायः प्रत्युवाच। वत्सोत्तङ्क उष्यतां तावदिति। % 1,3,97 स कदाचित्तमुपाध्यायमाहोत्तङ्कः। आज्ञापयतु भवान्। किं ते प्रियमुपहरामि गुर्वर्थमिति। % 1,3,98 तमुपाध्यायः प्रत्युवाच। वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति। तद्गच्छ। एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति। एषा यद्ब्रवीति तदुपहरस्वेति। % 1,3,99 स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत्। भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम्। तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम्। तदाज्ञापयतु भवती। किमुपहरामि गुर्वर्थमिति। % 1,3,100 सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच। गच्छ पौष्यं राजानम्। भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले। ते आनयस्व। इतश्चतुर्थेऽहनि पुण्यकं भविता। ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि। शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि संपादयस्व। श्रेयो हि ते स्यात्क्षणं कुर्वत इति। % 1,3,11 स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः। स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव। % 1,3,102 स पुरुष उत्तङ्कमभ्यभाषत। उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति। % 1,3,103 स एवमुक्तो नैच्छत्। % 1,3,104 तमाह पुरुषो भूयः। भक्षयस्वोत्तङ्क। मा विचारय। उपाध्यायेनापि ते भक्षितं पूर्वमिति। % 1,3,105 स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः। % 1,3,106 तमुपेत्यापश्यदुत्तङ्क आसीनम्। स तमुपेत्याशीर्भिरभिनन्द्योवाच। अर्थी भवन्तमुपगतोऽस्मीति। % 1,3,107 स एनमभिवाद्योवाच। भगवन्पौष्यः खल्वहम्। किं करवाणीति। % 1,3,108 तमुवाचोत्तङ्कः। गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति। % 1,3,109 तं पौष्यः प्रत्युवाच। प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति। % 1,3,110 स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्। % 1,3,111 स पौष्यं पुनरुवाच। न युक्तं भवता वयमनृतेनोपचरितुम्। न हि ते क्षत्रियान्तःपुरे संनिहिता। नैनां पश्यामीति। % 1,3,112 स एवमुक्तः पौष्यस्तं प्रत्युवाच। संप्रति भवानुच्छिष्टः। स्मर तावत्। न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम्। पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति। % 1,3,113 अथैवमुक्त उत्तङ्कः स्मृत्वोवाच। अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति। % 1,3,114 तं पौष्यः प्रत्युवाच। एतत्तदेवं हि। न गच्छतोपस्पृष्टं भवति न स्थितेनेति। % 1,3,115 अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर्हृदयंगमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत्। % 1,3,116 सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच। स्वागतं ते भगवन्। आज्ञापय किं करवाणीति। % 1,3,117 स तामुवाच। एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति। % 1,3,118 सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत्। % 1,3,119 आह चैनम्। एते कुण्डले तक्षको नागराजः प्रार्थयति। अप्रमत्तो नेतुमर्हसीति। % 1,3,120 स एवमुक्तस्तां क्षत्रियां प्रत्युवाच। भवति सुनिर्वृता भव। न मां शक्तस्तक्षको नागराजो धर्षयितुमिति। % 1,3,121 स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत्। % 1,3,122 स तं दृष्ट्वोवाच। भोः पौष्य प्रीतोऽस्मीति। % 1,3,123 तं पौष्यः प्रत्युवाच। भगवंश्चिरस्य पात्रमासाद्यते। भवांश्च गुणवानतिथिः। तत्करिष्ये श्राद्धम्। क्षणः क्रियतामिति। % 1,3,124 तमुत्तङ्कः प्रत्युवाच। कृतक्षण एवास्मि। शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति। % 1,3,125 स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास। % 1,3,126 अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच। यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति। % 1,3,127 तं पौष्यः प्रत्युवाच। यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति। % 1,3,128 सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास। % 1,3,129 अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास। भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च। तत्क्षामये भवन्तम्। न भवेयमन्ध इति। % 1,3,130 तमुत्तङ्कः प्रत्युवाच। न मृषा ब्रवीमि। भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति। ममापि शापो न भवेद्भवता दत्त इति। % 1,3,131 तं पौष्यः प्रत्युवाच। नाहं शक्तः शापं प्रत्यादातुम्। न हि मे मन्युरद्याप्युपशमं गच्छति। किं चैतद्भवता न ज्ञायते यथा। \begin{verse} % 1,3,132 नावनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः। \\ विपरीतमेतदुभयं क्षत्रियस्य वाङ्नावनीती हृदयं तीक्ष्णधारम्॥ \\ \end{verse} % 1,3,133 इति। तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम्। गम्यतामिति। % 1,3,134 तमुत्तङ्कः प्रत्युवाच। भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः। प्राक्च तेऽभिहितम्। यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति। दुष्टे चान्ने नैष मम शापो भविष्यतीति। % 1,3,135 साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा। % 1,3,136 सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च। अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे। % 1,3,137 एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत्। तमुत्तङ्कोऽभिसृत्य जग्राह। स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश। % 1,3,138 प्रविश्य च नागलोकं स्वभवनमगच्छत्। तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन। प्रविश्य च नागानस्तुवदेभिः श्लोकैः। \begin{verse} % 1,3,139 य ऐरावतराजानः सर्पाः समितिशोभनाः। \\ वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः॥ \\ % 1,3,140 सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः। \\ आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः॥ \\ % 1,3,141 बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे। \\ इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना॥ \\ % 1,3,142 शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः। \\ सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति॥ \\ % 1,3,143 ये चैनमुपसर्पन्ति ये च दूरं परं गताः। \\ अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः॥ \\ % 1,3,144 यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा। \\ तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम्॥ \\ % 1,3,145 तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ। \\ कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु॥ \\ % 1,3,146 जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः। \\ अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम्। \\ करवाणि सदा चाहं नमस्तस्मै महात्मने॥ \\ \end{verse} % 1,3,147 एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ। % 1,3,148 तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः। चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम्। पुरुषं चापश्यद्दर्शनीयम्। % 1,3,149 स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः। \begin{verse} % 1,3,150 त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्। \\ चक्रे चतुर्विंशतिपर्वयोगे षड्यत्कुमाराः परिवर्तयन्ति॥ \\ % 1,3,151 तन्त्रं चेदं विश्वरूपं युवत्यौ वयतस्तन्तून्सततं वर्तयन्त्यौ। \\ कृष्णान्सितांश्चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव॥ \\ % 1,3,152 वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता। \\ कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके॥ \\ % 1,3,153 यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपेतः। \\ नमः सदास्मै जगदीश्वराय लोकत्रयेशाय पुरंदराय॥ \\ \end{verse} % 1,3,154 ततः स एनं पुरुषः प्राह। प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण। किं ते प्रियं करवाणीति। % 1,3,155 स तमुवाच। नागा मे वशमीयुरिति। % 1,3,156 स एनं पुरुषः पुनरुवाच। एतमश्वमपाने धमस्वेति। % 1,3,157 स तमश्वमपानेऽधमत्। अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः। % 1,3,158 ताभिर्नागलोको धूपितः। % 1,3,159 अथ ससंभ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच। एते कुण्डले प्रतिगृह्णातु भवानिति। % 1,3,160 स ते प्रतिजग्राहोत्तङ्कः। कुण्डले प्रतिगृह्याचिन्तयत्। अद्य तत्पुण्यकमुपाध्यायिन्याः। दूरं चाहमभ्यागतः। कथं नु खलु संभावयेयमिति। % 1,3,161 तत एनं चिन्तयानमेव स पुरुष उवाच। उत्तङ्क एनमश्वमधिरोह। एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति। % 1,3,162 स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम्। उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे। % 1,3,163 अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत्। ते चास्यै कुण्डले प्रायच्छत्। % 1,3,164 सा चैनं प्रत्युवाच। उत्तङ्क देशे कालेऽभ्यागतः। स्वागतं ते वत्स। मनागसि मया न शप्तः। श्रेयस्तवोपस्थितम्। सिद्धिमाप्नुहीति। % 1,3,165 अथोत्तङ्क उपाध्यायमभ्यवादयत्। तमुपाध्यायः प्रत्युवाच। वत्सोत्तङ्क स्वागतं ते। किं चिरं कृतमिति। % 1,3,166 तमुत्तङ्क उपाध्यायं प्रत्युवाच। भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि। तेनास्मि नागलोकं नीतः। % 1,3,167 तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ। तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः। किं तत्। % 1,3,168 तत्र च मया चक्रं दृष्टं द्वादशारम्। षट्चैनं कुमाराः परिवर्तयन्ति। तदपि किम्। % 1,3,169 पुरुषश्चापि मया दृष्टः। स पुनः कः। % 1,3,170 अश्वश्चातिप्रमाणयुक्तः। स चापि कः। % 1,3,171 पथि गच्छता मया ऋषभो दृष्टः। तं च पुरुषोऽधिरूढः। तेनास्मि सोपचारमुक्तः। उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय। उपाध्यायेनापि ते भक्षितमिति। ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम्। तदिच्छामि भवतोपदिष्टं किं तदिति। % 1,3,172 तेनैवमुक्त उपाध्यायः प्रत्युवाच। ये ते स्त्रियौ धाता विधाता च। ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी। % 1,3,173 यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम्। यः पुरुषः स पर्जन्यः। योऽश्वः सोऽग्निः। % 1,3,174 य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः। यश्चैनमधिरूढः स इन्द्रः। यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम्। % 1,3,175 तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने। स चापि मम सखा इन्द्रः। % 1,3,176 तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि। तत्सौम्य गम्यताम्। अनुजाने भवन्तम्। श्रेयोऽवाप्स्यसीति। % 1,3,177 स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे। \begin{verse} % 1,3,178 स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः। \\ समागच्छत राजानमुत्तङ्को जनमेजयम्॥ \\ % 1,3,179 पुरा तक्षशिलातस्तं निवृत्तमपराजितम्। \\ सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्॥ \\ % 1,3,180 तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः। \\ उवाचैनं वचः काले शब्दसंपन्नया गिरा॥ \\ % 1,3,181 अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम। \\ बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम॥ \\ % 1,3,182 एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह। \\ जनमेजयः प्रसन्नात्मा सम्यक्संपूज्य तं मुनिम्॥ \\ % 1,3,183 आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि। \\ प्रब्रूहि वा किं क्रियतां द्विजेन्द्र शुश्रूषुरस्म्यद्य वचस्त्वदीयम्॥ \\ % 1,3,184 स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः। \\ उवाच राजानमदीनसत्त्वं स्वमेव कार्यं नृपतेश्च यत्तत्॥ \\ % 1,3,185 तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता। \\ तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने॥ \\ % 1,3,186 कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः। \\ तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः॥ \\ % 1,3,187 तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना। \\ पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः॥ \\ % 1,3,188 बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः। \\ अकार्यं कृतवान्पापो योऽदशत्पितरं तव॥ \\ % 1,3,189 राजर्षिवंशगोप्तारममरप्रतिमं नृपम्। \\ जघान काश्यपं चैव न्यवर्तयत पापकृत्॥ \\ % 1,3,190 दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने। \\ सर्पसत्रे महाराज त्वयि तद्धि विधीयते॥ \\ % 1,3,191 एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि। \\ मम प्रियं च सुमहत्कृतं राजन्भविष्यति॥ \\ % 1,3,192 कर्मणः पृथिवीपाल मम येन दुरात्मना। \\ विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ॥ \\ % 1,3,193 एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह। \\ उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा॥ \\ % 1,3,194 अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः। \\ उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति॥ \\ % 1,3,195 तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत्। \\ यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा॥ \\ \end{verse} \end{document}