\documentclass[a4paper,12pt]{article} \usepackage{fontspec} \usepackage{polyglossia} \setdefaultlanguage{french} \setotherlanguage{sanskrit} \setmainfont{Charis SIL} \newfontfamily\sanskritfont[Script=Devanagari]{Sanskrit 2003} \renewcommand{\baselinestretch}{1.4} \newcommand{\skt}[1]{{\begin{sanskrit}#1\end{sanskrit}}} \catcode"00A0=\active \def^^^^00a0{\char32\relax} \title{Mahābhārata 1.3.1-9} \author{} \date{} \begin{document} \maketitle Texte en français. \skt{जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते । तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति । तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः । स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् । तं माता रोरूयमाणमुवाच । किं रोदिषि । केनास्यभिहत इति । स एवमुक्तो मातरं प्रत्युवाच । जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति । तं माता प्रत्युवाच । व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति । स तां पुनरुवाच । नापराध्यामि किंचित् । नावेक्षे हवींषि नावलिह इति । तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते । स तया क्रुद्धया तत्रोक्तः । अयं मे पुत्रो न किंचिदपराध्यति । किमर्थमभिहत इति । यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति । स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं संभ्रान्तो विषण्णश्चासीत् ।} Texte en français. \end{document}